|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.29. अध्यायः 029
Mahabharata - Adi Parva - Chapter Topics
कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम्॥ 1 ॥
गरुडस्य कश्यपेन संवादः॥ 2 ॥
गजकच्छपपूर्ववृत्तान्तकथनम्॥ 3 ॥
कश्यपाज्ञया गरुडस्य गजकच्छपग्रहणम्॥ 4 ॥
रोहिणवृक्षशाखाभङ्गः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-29-0x(115)(1436)
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1(1437)
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2(1438)
सौतिरुवाच। 1-29-3x(116)
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।
निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3(1439)
गरुड उवाच। 1-29-4x(117)
एतामपि निषादीं त्वं परिगृह्याशु निष्पत।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा॥ 1-29-4(1440)
सौतिरुवाच। 1-29-5x(118)
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5(1441)
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्।
वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6(1442)
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः।
यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7(1443)
कश्यप उवाच। 1-29-8x(119)
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥
`क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि॥' 1-29-8(1444)
गरुड उवाच। 1-29-9x(120)
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।
न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9(1445)
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10(1446)
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11(1447)
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।
यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो॥ 1-29-12(1448)
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्। 1-29-13(1449)
कश्यप उवाच।
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्॥ 1-29-13x(121)
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः॥ 1-29-14(1450)
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ।
`शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम्॥ 1-29-15(1451)
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज।'
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्॥ 1-29-16(1452)
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः॥ 1-29-17(1453)
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-18(1454)
`विभागे बहवो दोषा भविष्यन्ति महातपः।'
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः॥ 1-29-19(1455)
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-20(1456)
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-21(1457)
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।
`एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्॥ 1-29-22(1458)
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।'
गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-23(1459)
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-24(1460)
कश्यप उवाच। 1-29-25x(122)
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि॥ 1-29-25(1461)
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-26(1462)
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-27(1463)
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।
तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-28(1464)
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-29(1465)
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम्।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-30(1466)
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-31(1467)
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-32(1468)
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः॥ 1-29-33(1469)
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ 1-29-34(1470)
सौतिरुवाच। 1-29-35x(123)
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥ 1-29-35(1471)
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा॥ 1-29-36(1472)
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥ 1-29-37(1473)
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।
`वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।'
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात्॥ 1-29-38(1474)
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥ 1-29-39(1475)
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥ 1-29-40(1476)
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत्।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥ 1-29-41(1477)
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥ 1-29-42(1478)
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्॥ 1-29-43(1479)
`तेषां मध्ये महानासीत्पादपः सुमनोहरः।
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः॥ 1-29-44(1480)
खगानामालयो दिव्यो नाम्ना रौहिणपादपः।
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः;॥ 1-29-45(1481)
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।
अतिप्रवृद्धः समुहानापतन्तं मनोजवम्॥ 1-29-46(1482)
रौहिण उवाच। 1-29-47x(124)
यैषा मम महाशाखा शतयोजनमायता।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ 1-29-47(1483)
सौतिरुवाच। 1-29-48x(125)
ततो द्रुमं पतगसहस्रसेवितं
महीधरप्रतिमवपुः प्रकम्पयन्।
खगोत्तमो द्रुतमभिपत्य वेगवा-
न्बभञ्ज तामविरलपत्रसंचयाम्॥ ॥ 1-29-48(1484)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-29-4 संभावय संजीवय॥ 1-29-7 ततोऽपश्यत्स्वपितरं काश्यपं दीप्ततेजसम्। तं श्रेष्ठं पततां श्रेष्ठो ब्रह्म ब्रह्मविदां वरम्। पृष्टश्च पित्रा बलवान्वैनतेयः प्रतापदान्। इति पाठान्तरम्॥ 7 ॥ 1-29-9 भोजने बहुले मम कुशलं न हि॥ 1-29-10 सोमं अमृतम्॥ 1-29-14 कूर्माग्रजं कूर्मभूतं ज्येष्ठभ्रातरम्॥ 1-29-21 अन्तरेषु छिद्रेषु॥ 1-29-30 आवेष्टितकरः कुण्डलीकृतशुण्डादण्डः॥ 1-29-33 उपयुज्य भुक्त्वा॥ 1-29-38 भविष्यति समरे॥ एकोनत्रिंशोऽध्यायः॥ 29 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|